VISION
The Department envisages to prepare wise and mature students having knowledge contained in ancient texts of Sanskrit with an understanding of Sanskrit Language by teaching through Sanskrit.
MISSION
To encourage innovation, skill and creativity in order to meet the expectations of the modern times through implementation of New Education Policy
ACADEMIC ACHIEVEMENTS
The Department has revised and updated the syllabus according to the guidelines of CBCS/LOCF and is committed to update it as per the New Education Policy 2020 guidelines.
The Department organizes ‘Sanskrit Week’ every year on the occasion of Rakshabandhan (Sanskrit Day) in which academic activities like Sanskrit Quiz, Extempore speech and Debates are held.
The Department is keen to maintain quality and standard of Research undertaken in the Department. A Seminar on Research Ethics was organized in this regard on 12.04.2022.
सर्वविदितमेतत् यत् कुरुक्षेत्रविश्वविद्यालयस्य स्थापना सर्वप्रथमं संस्कृतविश्वविद्यालयरूपेणैवाभवत् , परं कालान्तरे अयम् अनेकविभागैः संपन्नः कुरुक्षेत्रविश्वविद्यालय इति नाम्ना प्रसिद्धः जातः | अतः आरम्भतः प्रभृतिः अस्मिन् विश्वविद्यालये संस्कृतविभागस्य अतिविशिष्टपरम्पराः निर्मिताः, संरक्षिताः, संवर्धिताः च सन्ति | शोधक्षेत्रे, अध्ययनाध्यापनक्षेत्रे, पाठ्येतरगतिविधिक्षेत्रे, संस्कृतस्य प्रसार-प्रचार-क्षेत्रे च अनेन विभागेन संपूर्णभारतवर्षे एकं प्रतिमानं स्थापितम् | अत्र नियुक्ताः आचार्याः स्वस्वविशिष्टाध्ययनक्षेत्राणां प्रख्यातविद्वान्सः आसन् | तैरेव प्रारब्धाः वेद-व्याकरण-दर्शन-साहित्य-धर्मतन्त्रागमविषयाः पाठ्यक्रमे संकलिताः पञ्चवर्गरूपेणापि संचालिताः | स्नातकोत्तरप्रथमवर्षे प्रविष्टाः विद्यार्थिनः द्वितीयवर्षे निजरुच्यनुसारं विषेशाध्ययनवर्गं चिन्वन्ति, तेष्वेव शोधकार्यं च कुर्वन्ति | अस्मिन् विभागे अनिवार्यरूपेण पालिप्राकृतभाषा साहित्यमपि च पाठ्यते | छात्राणां संभाषणकौशलविकासार्थम् अत्र प्रतिवर्षं संभाषण-शिविराः आयोज्यन्ते | भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य आदेशानुसारं प्रतिवर्षं श्रावणीपूर्णिमायाः अवसरे संस्कृतदिवसमधिकृत्य संस्कृतसप्ताहः आयोज्यते यस्मिन् संस्कृतभाषण-सूत्रान्त्याक्षरी-प्रश्नोत्तरी-श्लोकोच्चारण-सद्योभाषण-सदृशाः राज्यस्तरीयप्रतियोगिताः समायोजिताः सन्ति, येषु भागग्रहणार्थं सुदूरस्थलेभ्यः विद्यापीठेभ्यश्च निमन्त्रिताः छात्राः आगच्छन्ति | अस्मिन्नेव कार्यक्रमे विद्वद्गोष्ठी, वेदमन्त्रोच्चारणम्, यज्ञम् अपि संपाद्यते येन छात्रेषु संस्कृतं‚संस्कृतिं-राष्ट्रं च प्रति भावना जागृता भवति | विभागस्य सर्वे शिक्षकाः अध्ययने, शोधकार्ये, सर्वेषु च क्षेत्रेषु विभागम् उच्चतमं स्थानं प्रापयितुं प्रयासरताः सन्ति | विभागस्य अनेके पूर्वाचार्याः हरियाणा-संस्कृत-अकादम्याः स्वकीय-संस्कृत-क्षेत्रे-योगदानार्थं पुरस्कृताः अपि सन्ति | विभागाध्यक्षपदं वहन्ती अहं विश्वविद्यालयस्य उद्देश्यानां पूर्तये विभागस्य योगदानं प्रति अवगतास्मि सदैव यथाशक्ति प्रयासं च करिष्यामि, हार्दिक्यः शुभकामनाः च प्रेषयामि
Haryana
Copyright © 2020 Kurukshetra University, Kurukshetra. All Rights
Reserved.
Powered by: Dexpert Systems
Pvt Ltd